4/16/2012

*आदित्य हृदयस्तोत्रम्‌*

*आदित्य हृदयस्तोत्रम्‌* ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् l रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ll दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्l l उपागम्याब्रवीद्राममगस्त्यो भगवानृषिः ll राम राम महाबाहो शृणु गुह्यं सनातनम् l येन सर्वानरीन्वत्स समरे विजयिष्यसि ll आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् l जयावहं जपेन्नित्यं अक्ष्य्यं परमं शिवम् ll सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् l चिंताशोकप्रशमनं आयुर्वर्धनमुत्तमम् ll रश्मिमंतं समुद्यन्तं देवासुरनमस्कृतम् l पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ll सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः l एष देवासुरगणाँल्लोकां पाति गभस्तिभिः ll एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः l महेन्द्रो धनदः कालो यमः सोमोह्यपां पतिः ll पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः l वायुर्वह्निः प्रजाप्राण ऋतुकर्ता प्रभाकरः ll आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् l सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः ll हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् l तिमिरोन्मथनः शंभुस्त्वष्टा मार्ताण्ड अंशुमान् ll हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः l अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः ll व्योमनाथस्तमोभेदी ऋग्यजुस्सामपारगः l घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः ll आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः l कविर्विश्वो महातेजाः रक्तः सर्वभवोद्भवः ll नक्ष्त्रग्रहताराणामधिपो विश्वभावनः l तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तु ते ll नमः पूर्वाय गिरये पश्चिमायाद्रये नमः l ज्योतिर्गणानां पतये दिनाधिपतये नमः ll जयाय जयभद्राय हर्यश्वाय नमो नमः l नमो नमः सहस्रांशो आदित्याय नमो नमः ll नमः उग्राय वीराय सारङ्गाय नमो नमः l नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः ll ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे l भास्वते सर्वभक्षय रौद्राय वपुषे नमः ll तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने l कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ll तप्तचामीकराभाय वह्नये विश्वकर्मणे l नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ll नाशयत्येष वै भूतं तदेव सृजति प्रभुः l पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ll एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः l एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ll वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च l यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ll एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च l कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव ll पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् l एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ll अस्मिन्क्शणे महाबाहो रावणं त्वं वधिष्यसि l एवमुक्त्वा तदाऽगस्त्यो जगाम च यथागतम् ll एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा l धारयामास सुप्रीतो राघवः प्रयतात्मवान् ll आदित्यं प्रेक्श्य जप्त्वा तु परं हर्षमवाप्तवां l त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ll रावणं प्रेक्श्य हृष्टात्मा युद्धाय समुपागमत् l सर्व यत्नेन महता वधे तस्य धृतोऽभवत् ll अथ रविरवदन्निरीक्श्य रामं l मुदितमनाः परमं प्रहृष्यमाणः ll निशिचरपतिसंक्शयं विदित्वा l सुरगणमध्यगतो वचस्त्वरेति ll